प्रश्न 2: अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) पृथिव्यां कति रत्नानि सन्ति? – ______
उत्तरम्: त्रीणि।
(ख) अयं निजः परो वा इति गणना केषां भवति ? – ______
उत्तरम्: लघुचेतसाम्।
(ग) कार्याणि क्रेन सिध्यन्ति ? – ______
उत्तरम्: उद्यमेन ।
(घ) विद्या किं ददाति ? – ______
उत्तरम्: विनयम् ।
(ङ) जननी जन्मभूमिश्च कस्मात् गरीयसी ? – ______
उत्तरम्: स्वर्गात् ।
(च) लङ्का कीदृशी आसीत्? – ______
उत्तरम्: स्वर्णमयी।
प्रश्न 3: अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखन्तु ।
(क) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।
(ख) उदारचरितानां भावः कः भवति ?
उत्तरम्: उदारचरितानां भाव: (वसुधैव) कुटुम्बकम् भवति।
(ग) मृगाः स्वयमेव कस्य मुखे न प्रविशन्ति ?
उत्तरम्: मृगाः स्वयमेव सिंहस्य मुखे न प्रविशन्ति।
(घ) अभिवा4शीलस्य नित्यं कानि वर्धन्ते ?
उत्तरम्: अभिवादनशीलस्य नित्यं चत्वारि वर्धन्ते आयुर्विद्या यशो वलम्।
(ङ) मनुष्यः धनात् किम् आप्नोति ?
उत्तरम्: मनुष्यः धनात् धर्मम् आप्नोति।
(च) उत्पन्नेषु कार्येषु कीदृशं धनम् उपयोगाय न भवति ?
उत्तरम्: उत्पेन्नेषु कार्येषु परहस्तगतं धनम् उपयोगाय न भवति।
प्रश्न 4: चित्रं दृष्ट्वा वाक्यानि रचयन्तु ।उदाहरणम्- वृक्षः फलानि यच्छति । त्वं फलानि स्वीकरोषि । अहं फलानि स्वीकरोमि ।
उत्तरम्:
(क) वृक्षः छायां यच्छति । त्वं छायां स्वीकरोषि । अहं छायां स्वीकरोमि ।
(ख) वृक्षः पुष्पाणि यच्छति । त्वं पुष्पाणि स्वीकरोषि । अहं पुष्पाणि स्वीकरोमि।
(ग) वृक्षः पत्राणि यच्छति । त्वं पत्राणि स्वीकरोषि । अहं पत्राणि स्वीकरोमि ।
(घ) वृक्षः कर्गदं यच्छति । त्वं कर्गदं स्वीकरोषि । अहं कर्गदं स्वीकरोमि।
(ङ) वृक्षः काष्ठानि यच्छति । त्वं काष्ठानि स्वीकरोषि । अहं काष्ठानि स्वीकरोमि ।
प्रश्न 5: अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति लिखन्तु ।
यथा – किं पृथिव्यां त्रीणि रत्नानि सन्ति? (आम्)
(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः च सन्ति? ______
उत्तरम्: न
(ख) किं धर्मेण सुखं प्राप्यते ? ______
उत्तरम्: आम्
(ग) किं विद्या विनयं ददाति ? ______
उत्तरम्: आम्
(घ) किम् अभिवादनशीलस्य विद्या वर्धते ? ______
उत्तरम्: आम्
(ङ) किम् उद्यमेन कार्याणि नश्यन्ति ? ______
उत्तरम्: न
(च) किं जन्मभूमि स्वर्गात् गरीयसी भवति ? ______
उत्तरम्: आम्
प्रश्न 6: चित्रे दर्शितस्य नाम लिङ्गं च निर्दिशन्तु ।उत्तरम्:
प्रश्न 7: वलये पदानि विलिख्य सुभाषितं पूरयन्तु ।उत्तरम्:
प्रश्न 8: पट्टिकातः पदानि चित्वा निर्देशानुसार पदानि लिखन्तु ।
(क) प्रथमान्त-पुंलिङ्गपदानि सन्ति
उत्तरम्:
(ख) प्रथमान्त – स्त्रीलिङ्गपदानि सन्ति
उत्तरम्:
(ग) प्रथमान्त नपुंसकलिङ्गपदानि सन्ति
उत्तरम्:
प्रश्न 9: पाठगतानि सुभाषितानि स्मृत्वा रिक्तस्थानानि पूरयन्तु।
(क) पृथिव्यां त्रीणि रत्नानि _____ सुभाषितम्।
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
(ख) उदारचरितानां तु _____ कुटुम्बकं भवति ।
उत्तरम्: उदारचरितानां तु वसुधैव कुटुम्बकं भवति ।
(ग) उद्यमेन हि _____ सिद्ध्यन्ति ।
उत्तरम्: उद्यमेन हि कार्याणि सिद्ध्यन्ति ।
(घ) अभिवादनशीलस्य वृद्धोपसेविनः _____ वर्धन्ते ।
उत्तरम्: अभिवादनशीलस्य वृद्धोपसेविनः चत्वारि आयुर्विद्या यशोबलं वर्धन्ते ।
(ङ) उद्यमः _____ पराक्रमः ।
उत्तरम्: उद्यमः साहस, धैर्यं, बुद्धि:, शक्तिः पराक्रमः ।
(च) विद्या _____ ददाति ।
उत्तरम्: विद्या विनयं ददाति ।
(छ) जननी जन्मभूमिश्च _____ गरीयसी भवति ।
उत्तरम्: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी भवति ।
प्रश्न 10: चित्राणि दृष्ट्वा उचितान् श्लोकांशान् लिखन्तु ।उत्तरम्:
(क) उद्यमेन हि सिध्यन्ति कार्याणि ।
(ख) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
(ग) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।
(घ) परहस्तगतं धनं धनं न ।
(ङ) उदारचरितानां तु वसुधैव कुटुम्बकम् ।
(i) पाठस्य सर्वाणि सुभाषितानि बृहत् स्फोरकपत्रे सचित्रं लिखित्वा कक्षायाः भित्तौ स्थापयन्तु ।
उत्तरम्: स्वयेव कुर्वन्तु ।
(ii) सुभाषितेषु प्रयुक्तानां क्रियापदानां सूचीं कुर्वन्तु । तेषाम् आधारेण वाक्यरचनां कुर्वन्तु ।
उत्तरम्: सुभाषितेषु प्रयुक्तानां क्रियापदानां वाक्यरचना:-
(iii) विद्या, उद्यम, अभिवादनशीलः, इत्यादिगुणाः येषु सन्ति तादृशानां पञ्चानां महापुरुषाणां जीवनपरिचयं पठन्तु लिखन्तु च ।
उत्तरम्:
(iv) “वसुधैव कुटुम्बकम्” इति विषये एकां भाषणप्रतियोगिताम् आयोजयन्तु ।
उत्तरम्: ‘वसुधैव कुटुम्बकम्’: सृष्टेः स्त्रष्टा ईश्वर: एकः एव अस्ति । संसारस्य सर्वे प्राणिनः ईश्वरस्य सन्ततिः । अतः सम्पूर्णे विश्वे स्थिताः जनाः रूप-वर्ण- भाषा-संस्कृति-भेदान् धारयन्तः अपि ते सर्वे समानाः एव सन्ति। अतः श्रेष्ठः जनः सर्वप्राणिषु समानं व्यवहारं करोति, सर्वे स्निह्यति ते कमपि न पीडयति । भारतीयाः एतदर्थम् कथयन्ति । ‘सर्वे भवन्तु सुखिन: ‘ सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। अस्माकम् कृते तु वसुधैव कुटुम्बकम् इव अस्ति ।
30 videos|63 docs|15 tests
|
1. पृथिव्यां त्रीणि रत्नानि कोणानि ? | ![]() |
2. त्रीणि रत्नानि का उपयोगं किं प्रकारं अस्ति ? | ![]() |
3. एते रत्नानि किं विशेषं अस्ति ? | ![]() |
4. रत्नानां मूल्यं किं प्रकारं निर्धारणं क्रियते ? | ![]() |
5. पृथिव्यां अन्यानि रत्नानि कोणानि सन्ति ? | ![]() |